|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.120. अध्यायः 120
Mahabharata - Adi Parva - Chapter Topics
पृथाया बाल्यचरित्रकथनम्॥ 1 ॥ तस्या दुर्वाससो मन्त्रप्राप्तिः॥ 2 ॥
मन्त्रप्रभावजिज्ञासयाऽऽहूतात्सूर्यात्कुन्त्यां कर्णस्योत्पत्तिः॥ 3 ॥
लोकभयात्कुन्त्या यमुनायां विसृष्टस्य राधाभर्त्रा स्वीकारो वसुषेणेति नामकरमं च॥ 4 ॥
संग्रहेण कर्णचरित्रकथनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-120-0x(718)(5300)
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि॥ 1-120-1(5301)
पितृष्वस्रीयाय स तामनपत्याय भारत।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक्॥ 1-120-2(5302)
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने॥ 1-120-3(5303)
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम्॥ 1-120-4(5304)
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्॥ 1-120-5(5305)
`दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा।
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा॥ 1-120-6(5306)
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम्'।
यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः॥ 1-120-7(5307)
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति॥ 1-120-8(5308)
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता।
कन्या सती देवमर्कमाजुहाव यशस्विनी॥ 1-120-9(5309)
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम्॥ 1-120-10(5310)
सा ददर्श तमायान्तं भास्करं लोकभावनम्।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्॥ 1-120-11(5311)
`साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः। 1-120-12(5312)
आदित्य उवाच।
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम्।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते॥ 1-120-12x(719)
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने।
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम्॥ 1-120-13(5313)
शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते।
नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति॥ 1-120-14(5314)
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति।
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति॥ 1-120-15(5315)
वैशम्पायन उवाच। 1-120-16x(720)
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह।
कन्या पितृसा चाहं पुरुषार्थो न चैव मे॥' 1-120-16(5316)
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन्।
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो॥ 1-120-17(5317)
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये।
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः॥ 1-120-18(5318)
सूर्य उवाच। 1-120-19x(721)
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ।
संत्यज्य भयमेवेह क्रियतां सङ्गमो मम॥ 1-120-19(5319)
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे।
वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः॥ 1-120-20(5320)
`यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम्।
यदि मामवजानासि ऋषिः स न भविष्यति॥ 1-120-21(5321)
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा'॥ 1-120-22(5322)
वैशम्पायन उवाच। 1-120-23x(722)
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत॥ 1-120-23(5323)
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ॥ 1-120-24(5324)
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत॥ 1-120-25(5325)
`कुन्त्युवाच। 1-120-26x(723)
प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे।
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम्॥ 1-120-26(5326)
आदित्य उवाच। 1-120-27x(724)
व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे।
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि॥ 1-120-27(5327)
वैशम्पायन उवाच। 1-120-28x(725)
एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा।
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना॥ 1-120-28(5328)
प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः।'
तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः॥ 1-120-29(5329)
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः॥ 1-120-30(5330)
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः।
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः॥ 1-120-31(5331)
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः।
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा॥ 1-120-32(5332)
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्।
गूहमानापचारं सा बन्धुपक्षभयात्तदा॥ 1-120-33(5333)
मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम्।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्॥ 1-120-34(5334)
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः॥ 1-120-35(5335)
नामधेयं च चक्राते तस्य बालस्य तावुभौ।
वसुना सह जातोऽयं वसुषेणो भवत्विति॥ 1-120-36(5336)
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्॥ 1-120-37(5337)
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः।
नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले॥ 1-120-38(5338)
`ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत्।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम॥ 1-120-39(5339)
प्रभातायां रजन्यां त्वामागमिष्यति वासवः।
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति॥ 1-120-40(5340)
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम॥ 1-120-41(5341)
कर्ण उवाच। 1-120-42x(726)
शक्रो मां विप्ररूपेण यदि वै याचते द्विज।
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः॥ 1-120-42(5342)
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम्।
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे॥ 1-120-43(5343)
सूर्य उवाच। 1-120-44x(727)
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति।
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम्॥ 1-120-44(5344)
वैशम्पायन उवाच। 1-120-45x(728)
एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा॥ 1-120-45(5345)
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः॥ 1-120-46(5346)
उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम्।
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः॥ 1-120-47(5347)
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा।
अहो साहसमित्याह मनसा वासवो हसन्॥ 1-120-48(5348)
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति॥ 1-120-49(5349)
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि। 1-120-50(5350)
कर्ण उवाच।
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम्॥ 1-120-50x(729)
वैशम्पायन उवाच। 1-120-51x(730)
शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत्।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्॥ 1-120-51(5351)
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति।
हत्वैकं समरे शत्रुं ततो मामागमिष्यति।
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै॥ 1-120-52(5352)
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत्॥ ॥ 1-120-53(5353)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि विंशत्यधिकशततमोऽध्यायः॥ 120 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-120-2 अग्र्यं प्रथमम्। अग्रे जन्मतः पूर्वं प्रतिज्ञाय मया प्रथममपत्यं तुभ्यं देयमिति प्रतिश्रुत्य॥ 1-120-7 अभिचारो वश्याकर्षणादिदृष्टफलं तद्युक्तम्॥ 1-120-36 वसुना कवचकुण्डलादिद्रव्येण बद्ध इति वसुषेणः॥ 1-120-37 आपृष्ठतापात् मध्याह्नात्परत इत्यर्थः॥ 1-120-53 सहजकवचकर्तनात् कर्णः विशेषतः कर्तनेन वैकर्तनः। स्वार्थे तद्धितः॥ विंशत्यधिकशततमोऽध्यायः॥ 120 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|